अद्न्तोदात्तातिति वर्तते। अनुम् यः शतृप्रत्ययस् तदन्तात् परा नदी अजादिर् विभक्तिरसर्वनामस्थानम् उदात्ता भवति। तुदती। नुदती। लुनती। पुनती। तुदता। लुनता। पुनता। अनुमः।
इति किम्? तुदन्ती। नुदन्ती। अत्र अप्युपदेशातिति लसार्वधातुकादनुदात्तत्वे एकादेशः, तस्य एकादेश उदात्तेन उदात्तः
८।२।५ इत्युदात्तत्वम् , तस्य पूर्वत्र असिद्धत्वम् न इष्यते इति शत्रन्तम् अन्तोदात्तं भवति।
नद्यजादी इति किम्? तुदद्भ्याम्। नुदद्भ्याम्। तुदद्भिः। अन्तोदात्तातित्येव, ददती। दधतः। अभ्यस्तानाम् आदिः
६।१।१८३ इत्याद्युदात्तवेतौ। बृहन्महतोरुपसङ्ख्यानम्। बृहती। महती। बृहता। महता।
"तुदति, नुदति" इति। तुदादित्वाच्छः। "लुनती, पुनती" इति। "श्नाभ्यसतयोरातः"
६।४।११२ इत्याकारलोपः। प्रतययस्वरेण शत्रन्तमिहान्तोदात्तं वेदितव्यम्()। "तस्य" इत्यादि।
कथं पुनरिष्यमाणमपि न भवति? "न मु ने"
८।२।३ इत्यत्र नेति योगविभागात्()।
"बृहन्महतोः" इत्यादि। उपसंख्यानशब्दस्य प्रतिपदनमर्थः। तत्रेदं प्रतिपादनम्()--"ड()आश्छन्दसि"
६।१।१७२ इत्यतः सिंहावलोकितन्यायेन बहुलग्रहणमुपतिष्ठते, तेन बृहन्महद्भ्यामपि भवतीति॥